________________
खोपझलघुत्तिः। ओजोऽञ्जःसह नस्तमस्तपसष्टः।३।२।१२
एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । टइति किम् ओजो भावः॥ १२॥ पुञ्जनुषोऽनुजान्धे।३।२।१३ ।
पुञ्जनुभ्ा परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । पुंसाऽनुजः । जनुषाऽन्धः । इत्येव । पुमनुजा ॥ १३ ॥
आत्मनः पूरणे।३।२।१४। अस्मात्परस्य टः पूरणप्रत्ययान्त उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः । आत्मनाषष्ठः ॥ १४ ॥
मनश्चाज्ञायिनि ।३।२।१५।
मनसः आत्मनश्च परस्य टआज्ञायिन्युत्तरपदे लुब् न स्यात् । मनसाज्ञायी । आत्मनाशायी ॥ १५ ॥
· नाम्नि । ३।२।१६ । मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसादेवी । नाम्नीति किम् । मनोदत्ता कन्या ॥१६॥
परात्मभ्यां डेः । ३।२।१७।
आभ्यां परस्य वचनस्योत्तरपदे परे नानिलुब् न स्यात् । परस्मैपदम् । आत्मनेपदम् । नाम्नीत्येव । परहितम् ॥१७॥ अद्वयञ्जनात्सप्तम्याबहुलम् ।३।२।१८।
अदन्तादयञ्जनान्ताच परस्याः सप्तम्या बहुलं नाम्नि लुब न स्यात् । अरण्येतिलकाः । युधिष्ठिरः। अद्वयजनादिति किम् । भूमिपाशः। नाम्नीत्येव । तीर्थकाकः ॥ १८॥