________________
ܐ
हेमशब्दानुशासनस्थ
1
अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु | उपकर्तृ । अनतइति किम् । उपकुम्भात् । अव्ययीभावस्यत्येव । प्रियोपवधुः ॥ ६ ॥
अव्ययस्य । ३ ।२।७।
अव्ययस्य सादेर्लुप् स्यात् । स्वः । प्रातः । अव्यस्येति किम् । अत्युच्चैसः ॥ ७ ॥
ऐकार्थ्ये । ३ । २ । ८।
ऐकार्थ्यमैकपद्यं तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः । पुत्रीयति । औपगवः । अतएव लुब्विधानान्नाम नाम्नेत्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्थ्य इति किम् । चित्रा गावो यस्येत्यादि - वाक्ये माभूत् ॥ ८ ॥
न नाम्येकस्वरात् खित्युत्तरपदे
ऽमः । ३ । २ । ९।
समासारम्भकमन्त्यं पदमुत्तरपदं तस्मिन् खित् प्रत्ययान्ते उत्तरपदे परे नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामो लुब् न स्यात् । स्त्रियंमन्यः । नावमन्यः । नामीति किम् । क्ष्मंमन्यः । एकस्वरादिति किम् । वधुं - मन्यः । खितीति किम् । स्त्रीमानी ॥ ९ ॥
असत्त्वे इसेः । ३ । २ । १० ।
असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असत्त्वइति किम् । स्तोकभयम् | उत्तरपदइत्येव । निःस्तोकः ॥ १० ॥ ब्राह्मणाच्छंसी । ३ । २ । ११ ।
अत्रसमासे इसे भावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लंबेव । ब्राह्मणशंसिनी स्त्री ॥ ११ ॥