________________
स्वोपालपुतिः।
अर्हम् परस्पराऽन्योन्येतरेतरस्याम् स्यादेर्वा ।
पुंसि । ३।२।१। एषामवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परं अन्योन्यां अन्योन्यं इतरेतरां इतरतरं भोजयतः । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण अन्योन्यां अन्योनेन इतरेतरां इतरेतरेण भोज्यते । अपुंसीति किम् । इमे नराः परस्परं भोजयन्ति ॥ १॥ अमव्ययीभावस्यातोऽपञ्चम्याः ।३।२।२।
अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात् । नतु पञ्चम्याः। उपकुम्भमस्ति । उपकुम्भं देहि । अव्ययीभावस्येति किम् । प्रियोपकुम्भोऽयम् । अतइति किम् । अधिस्त्रि । अपञ्चम्या इति किम् । उपकुम्भात् ॥२॥
वा तृतीयायाः ।३।२।३। अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किन्न उपकुम्भम् । किन्न उपकुम्भेन । अव्ययीभावस्येति किम् । प्रियोपकुम्भेन ॥
सप्तम्या वा ।३।२।४। अदन्तस्याव्ययीभावस्य सप्तम्या अम्वा स्यात् । उपकुम्भम् । उपकुम्भे निधेहि । अव्ययीभावस्येत्येव । प्रियोपकुम्भे ॥ ४ ॥
ऋद्धनदीवंश्यस्य ।३।२।५। एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम् । उन्मत्तगङ्गम् । एकविंशतिभारद्वाजं वसति ॥५॥
अनतो लप । ३।२।६।