________________
स्वोपज्ञलघुवृत्तिः ।
ऋतां विद्यायोनिसम्बन्धे ३ । २ । ३७
ऋदन्तानां विद्यया योन्या वा कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ट्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुःपुत्रः । पितुः पुत्रः । पितुरन्तेवासी । ऋतामिति किम्। आचार्यपुत्रः । विद्यायोनिसम्बन्ध इति किम् । भर्तृगृहम् ॥ ३७ ॥
१५३
स्वसृपत्योर्वा । ३ । २ । ३८ ।
विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां षष्ठयाः स्वसृपत्योरुत्तरपदयोर्योनिसम्बन्धनिमित्तयोर्लुक् वा न स्यात् । होतुःस्वसा । होतृस्वसा । स्वसुः पतिः । स्वसृपतिः । विद्यायोनिसम्बन्धइत्येव । भर्तृस्वसा । होतृपतिः ॥ ३८ ॥ आद्वन्द्वे । ३ । २। ३९।
विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां योद्वन्द्वस्तस्मिन् सत्युत्तरपदे पूर्वपदस्याssस्यात् । होतापोतारौ । मातापितरौ । ऋतामित्येव । गुरुशिष्यौ । विद्यायोनिसम्बन्धइत्येव । कर्तृकारयितारौ ॥ ३९ ॥
पुत्रे । ३ । २ । ४० ।
पुत्रे उत्तरपदे विद्यायोनिसम्बन्धानामृदन्तानां द्वन्द्वे आः स्यात् । मातापुत्रौ । होतापुत्रौ ॥ ४० ॥
वेदसहश्रुताऽवायुदेवतानाम् । ३ ।२।४१।
एषां द्वन्द्वे पूर्वपदस्योत्तरपदे आः स्यात् । इन्द्रासो मौ । वेदेति किम् । ब्रह्मप्रजापती । सहेति किम् । विष्णुशकौ । श्रुतेति किम् । चन्द्रसूर्यौ । वायुवर्जनं किम् । वाखनी । देवतानामिति किम् । यूपचखालौ ॥ ४१ ॥ ईः षोमवरुणे ऽग्नेः । ३ । २ । ४२ ।
वेदसहश्रुता वायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदे ऽग्नेरी ः स्यात् । षोमेति निर्देशादीयोगे षत्वं च । अग्नीषोमौ । अग्नीवरुणौ । देवता हुन्छ इत्येव । अग्निसमौ बटू ॥ ४२ ॥
२०