________________
स्वोपज्ञलघुत्तिः। प्रहरणात् । ३।१ । १५४ । प्रहरणार्थात् क्तान्तं बहुवीहौ वा प्राक् स्यात् । उद्यतासिः । अस्युद्यतः ।। १५४ ॥
न सप्तमीन्द्वादिभ्यश्च।३।१।१५५।
इन्दादेः प्रहरणार्थाच प्राक् सप्तम्यन्तं बेहुवीही न स्यात् । इन्दु. मौलिः । पद्मनाभः । असिपाणिः ॥ १५५ ॥ . गड्वादिभ्यः ।३।१। १५६ ।
गझादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् । कण्ठेगडः । गडुकण्ठः । मध्येगुमः । गुरुमध्यः ॥ ९५६ ॥
प्रियः।३।१ । १५७। अयं बहुव्रीहौ प्राक् वा स्यात् । प्रियगुडः । गुडप्रियः ॥ १५७ ॥ कडारादयः कर्मधारये।३।१।१५८।
एते कर्मधारये प्राक् वा स्युः । कडारजैमिनिः। जैमिनिकडारः । काणद्रोणः । द्रोणकाणः ॥ २५८ ॥
धर्मार्थादिषु द्वन्द्वे ।३।१।१५९ । एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक् स्यात् । धम्मार्थो । अर्थधर्मों । शब्दार्थों । अर्थशब्दौ ॥ १५९ ।। लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑
मेकम् । ३।१ । १६० । लघ्वक्षरं सखिवजेंदुदन्तं स्वराधकारान्तमल्पस्वरं पूज्यवाचि चैकं दन्द्धे प्राक् स्यात् । शरशीर्षम् । अग्नीषोमौ । वायुतोयम् । असखीति