SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य वतिपदार्थानां गणनेमध्ये द्वन्दएकार्थो न स्यात् । दशगोमहिषाः । बहवः पाणिपादाः ॥ १४६ ॥ वान्तिके । ३ । १ । १४७ । aftपदार्थानां संख्यानस्य समीपे गम्ये द्वन्द्वएकार्थो वा स्यात् । उपदशम् । गोमहिषम् । उपदशाः । गोमहिषाः ॥ १४७ ॥ प्रथमोक्तं प्राक् । ३ । १ ।१४८ । अत्र समासप्रकरणे प्रथमान्तेन यन्निर्दिष्टं तत् प्राक् स्यात् । आसन्नदशाः । सप्तगङ्गम् ॥ १४८ ॥ राजदन्तादिषु ३ । १ । १४९। एतेषु समासेष्वप्राप्तप्रानिपातं प्राक् स्यात् । राजदन्तः । लिप्तवासितम् ।। ३४९ ॥ । विशेषणं सर्व्वादिसंख्यं बहुव्रीहौ । ३ । १ । १५० विशेषणं सर्वादिसंख्यावाचिच बहुव्रीहौ प्राक् स्यात् । चित्रगुः । सर्वशुक्लः । द्विकृष्णः ॥ १५० ॥ क्ताः । ३ । १ । १५१ । १४४ तान्तं सर्वे बहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ १५१ ॥ जातिकालसुखादेर्नवा । ३ । १ । १५२ । जातेः कालात् सुखादिभ्यश्च बहुब्रीहौ कान्तं वा प्राक् स्यात् । शाङ्गरजग्धी । जग्धशाङ्गरा । मासजाता । जातमासा । सुखजाता । जातसुखा । दुःखहीना । हीनदुःखा ॥ १५२ ॥ आहिताग्न्यादिषु । ३ । १ । १५३ ॥ एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः । अग्न्याहितः । जातदन्तः । दन्तजातः ।। १५३ ।।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy