SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः । १४३ अलीबेऽध्वर्युक्रतोः। ३।१।१३९ । अध्वर्युः यजुर्वेदः तदिहितक्रतुवाचिनां स्वैर्द्वन्दएकार्थः स्यात् । नचेदेते क्लीबवृत्तयः । अश्विमेधम् । अक्लीबइति किम् । गवामयनादित्यानामयने । अध्वर्षिति किम् । इषुवनौ । क्रतोरिति किम् । दर्शपौर्णमासो ॥ १३९ ॥ निकटपाठस्य । ३।१।१४०। निकटः पाठो येषामध्येतृणां तेषां खैर्द्वन्दएकार्थः स्यात् । पदक क्रमकम् ॥ १४० ॥ "नित्यवैरस्य ।३।१।१४१ । नित्यञ्जातिनिबद्धं वैरं येषां तेषां स्वैर्द्धन्द्धएकार्थः स्यात् । अहिन. . कुलम् । नित्यवैरस्येति किम् । देवासुराः । देवासुरम् ॥ १४१ ॥ नदीदेशपुरां विलिङ्गानाम् ।३।१।१४२। एषां विविधलिङ्गानां स्वैर्द्वन्द्वएकार्थः स्यात् । गङ्गाशोणम् । कुरुकुरुक्षेत्रं । मथुरापाटलिपुत्रम् । विलिङ्गानामिति किम् । गङ्गायमुने।। पात्र्यशूद्रस्य ।३।१।१४३ । पात्राहशुद्राचिनां स्वैर्द्वन्दएकार्थः स्यात्। तक्षायस्कारम् । पात्रेति किम् । जनगमबुक्कसाः ॥ १४३ ॥ गवाश्वादिः।३।१।१४४ । अयं द्वन्द्वएकार्थः स्यात् । गवाश्वम् । गवाविकम् ॥ १४४ ॥ न दधिपयआदिः।३।१।१४५ । दधिपय आयो द्वन्द्वएकार्थो न स्यात् । दधिपयसी। सपिर्मधुनी॥ संख्याने । ३।१।१४६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy