________________
१४२
हैमशब्दानुशासनस्य एतद्धाचिनां बह्वानां प्रत्येकं स्वैर्द्धन्द्धएकार्थो वा स्यात् । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः। कुशकाशम् । कुशकाशाः।तिलमाषम् । तिलमाषाः। ऋश्यैणम् । ऋश्यैणाः। हंसचक्रवाकम् । हंसचक्रवाकाः ॥१३३॥
सेनाङ्गक्षुद्रजन्तूनाम् ।३।१।१३४।
सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां बैईन्दएकार्थो नित्यं स्यात् । अश्वरथम् । यूकालिक्षम् ॥ १३४ ॥
फलस्य जातौ। ३।१ । १३५ ।
फलवाचिनां बह्वर्थानां जातौ ईन्द्धएकार्थो नित्यं स्यात् । बदरामलकम् । जाताविति किम् । एतानि बदरामलकानि सन्ति ॥१३५॥
अप्राणिपश्चादेः।३।१।१३६ । प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानाम् स्वैर्दन्द्रएकार्थः । स्यात् । आराशस्त्रि । जातावित्येव । सह्यबिन्ध्यौ । प्राणादिवर्जनं किम् । ब्राह्मणक्षत्रियविशुद्राः। ब्राह्मणक्षत्रियविदशुद्रम् । गोमहिषौ । गोमहिषम् । प्लक्षन्यग्रोधौ । प्लक्षन्यग्रोधम् । अश्वरथौ । अश्वरथम् । वदरामलके । बदरामलकम् ॥ १३६ ॥ प्राणितुर्याङ्गाणाम् । ३।१।१३७।
प्राणितूर्ययोरङ्गार्थानां स्वैर्द्वन्दएकार्थः स्यात् । कर्णनाशिकम् । माईङ्गिकपाणविकम् । वैरित्येव । पाणिगृध्रौ ॥ १३७ ।। चरणस्यस्थेणोऽद्यतन्यामनुवाद।३।१।१३८॥
चरणाः कठादयः । तदाचिनामद्यतन्यां यौ स्थेणी तयोः कर्तृत्वेन सम्बन्धिनां स्थैर्द्धन्दोऽनुवादविषये एकार्थः स्यात् । प्रत्यष्ठात् कठकालापम् । उदगात् कठकौथुमम् । अनुवादइति किम् । उदगुः कठकालापाः अप्रसिद्धं कथयन्ति ॥ १३८॥