SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । क्लीवं नपुंसकमन्येनाक्लीबेन सहोक्तावेकः शिष्यते । क्लीबाक्लीबमात्रभेदे तच शिष्यमाणं एकमेकार्थं च वा स्यात् । शुक्लं च शुकश्च शुक्लं शुक्ले वा । शुक्लं च शुक्लश्च शुक्लाच शुक्लं शुक्लानि वा । अन्येनेति किम् । शुक्लं च शुक्लं च शुक्ले । तन्मात्रमेदइत्येव हिमहिमान्यौ ॥ १२८ ॥ पुष्यार्थापुनर्वसुः ३ । १ । १२९ पुष्यार्थानक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोकौ दर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । उदितौ तिष्यपुनर्वसू । पुष्यार्थादिति किम् । आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् । पुष्यमघाः। भइति किम् तिष्यपुनर्वसवो बालाः ॥ १२९ ॥ विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः । ३ । १ । १३० । १४१ द्रव्यं गुणाद्याश्रयः । विरोधिवाचि नाम तदाश्रयवृत्तीनां द्वन्द्वौ चैकार्थः स्यात् । स्वैः स्वजातीयैरेवारब्धश्चेत् । सुखदुःखम् । सुखदुःखे । लाभालाभम् । लाभालाभौ । विरोधिनामिति किम् । कामक्रोधौ । अद्रव्याणामिति किम् । शीतोष्ण जले । स्वैरिति किम् । बुद्धिसुखदुःखानि ॥ अश्ववडवपूर्वापराधरोत्तरा । ३ । १ । १३१ । एते प ा एकार्था वा स्युः स्वैश्चेत् । अश्ववडवं । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरं । अधरोत्तरे ॥ १३१ ॥ पशुव्यञ्जनानाम् । ३ । १ । १३२ । पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थो वा स्यात् । गोमहिषम् । गोमहिषौ । दधिघृतम् । दधिघृते ॥ १३२ ॥ तरुतृणधान्यमृगपक्षिणा बहुत्वे | ३ | १|१३३ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy