________________
१४०
हैमशब्दानुशासनस्य श्वश्रुशब्देन सहोक्तौ श्वशुरएको वा शिष्यते । श्वशुरौ । श्वश्रूश्वशुरौ ॥ १२३ ॥
वृद्धोयूना तन्मात्रभेदे।३।१।१२४। • यूना सहोक्तौ वृद्धवाच्येकः शिष्यते । तन्मात्रभेदे न चेत्प्रकृतिभेदोऽर्थभेदो वाऽन्यः स्यात् । गार्ग्यश्च गाायणश्च गाग्र्यो । वृद्धइति किम् । गर्गगार्यायणौ. । यूनेति किम् । गार्यगौँ । तन्मात्रभेदइति किम् । गार्ग्यवात्स्यायनौ ॥ १२४ ॥
स्त्री पुंवच्च । ३।१।१२५ । वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते । पुल्लिङ्गश्चायं तन्मात्रभेदे । गार्गी च गाायणश्च गाग्यौँ । गार्गी च गाायणौ च गर्गान ॥ १२५ ॥
पुरुषः स्त्रिया।३।१।१२६ । पुरुषशब्दः प्राणिनि पुंसि रूढस्त्रीवाचिना सहोक्तौ पुरुष एकः शिष्यते । स्त्रीपुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुषइति किम् । तीरं नदनदीपतेः। तन्मात्रभेदइत्येव । स्त्रीपुंसौ॥१२६॥ ग्राम्याशिशुद्विशफसंचे स्त्रीप्रायः।३।१।१२७॥
प्राम्याशिशवो ये द्विशफा द्विखुरा अर्थात्पशवस्तेषां संचे स्त्रीपुरुष सहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते । स्त्रीपुरुषमात्रभेदश्चेत् । गावश्च स्त्रियःगावश्च नरा इमा गावः । ग्राम्येति किम् । रुरवश्चमे रुवश्चेमाः इमे रुरवः। अशिश्विति किम् । बर्कर्यश्च बकराश्च बर्कराः। द्विशफइति किम् । गर्दभाश्च गर्दभ्यश्च गर्दभाः। सङ्घइति किम् । गौश्चायं गौश्चेयं इमौ गावौ । प्रायइति किम् । ओष्ट्राश्च ओष्ट्यश्च ओष्ट्राः॥१२७॥
क्लीवमन्येनैकं च वा।३।१।१२८।