SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। सहोक्तौ माभूत् । ग्रामोग्रामोरमणीयः । सहोक्ताविति किम् । प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ॥ ११७ ॥ समानामर्थेनैकः शेषः ।३।१।११८। अर्थेन समानां समानार्थानां सहोक्तो गम्यायामेकः शिष्यते । । अर्थादन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् । प्लक्षन्यग्रोधौ । सहोक्तावित्येव । पक्रश्च कुटिलश्च दृश्यः ॥ ११८ ॥ स्यादावसंख्येयः।३।१।११९ । सर्वस्मिन् स्यादौ विभक्ती समानानां तुल्यरूपाणां सहोक्तावेकः शिष्यते । नतु संख्येयवाची। अक्षश्च शकटस्य अक्षश्च देवनः अक्षश्च बिभीतकः अक्षाः स्यादाविति किम् । माताच जननी । माता च धान्यस्य । मातृमातरौ । असंख्येयइति किम् । एकश्चैकश्च ॥११९॥ _त्यदादिः । ३।१। १२० । ___त्यदायैरन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ । स च येश्च यौ । अहं च स च त्वं च वयम् ॥ १२० ॥ भ्रातृपुत्राः स्वसृदुहितृभिः।३।१।१२१॥ स्वस्रर्थेन सहोक्तौ भ्रात्रों दुहित्रणेन च पुत्रार्थः एकः शिष्यते । भ्राता च वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ १२१ ॥ पिता मात्रा वा ।३।१।१२२ । मातृशब्देन सहोक्तौ पितृशब्दएको वा शिष्यते । पिता च माता च पितरौ मातापितरौ ॥ १२२ ॥ श्वशुरः श्वश्रूभ्यां वा।३।१।१२३।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy