SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ हम शब्दानुशासनस्य चतुष्पाद्गर्भिण्या । ३ । १ । ११२ । चत्वारः पादा यस्या जातेस्तद्वाच्येकार्थं गर्भिण्या समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोगर्भिणी । महिषगर्भिणी । जातिरित्येव । कालाक्षी गर्भिणी ॥ ११२ ॥ युवाखलतिपलितजरद्वलनैः । ३।१।११३ । १३८ युवन्नित्येकार्थमेभिः समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । युवखलतिः । युवपलितः । युवजरत् । युववलिनः ॥ ११३ ॥ कृत्य तुल्याख्यमजात्या । ३ । १ । ११४। कृत्यान्तं तुल्यपर्यायं चैकार्थ्यमजात्येन सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । भोज्योष्णम् । स्तुत्यपटुः । तुल्यसन् । सदृशमहान् । अजात्येति किम् | भोज्यओदनः ॥ ११४ ॥ कुमारः श्रमणादिना । ३ । १ । ११५ । कुमारेत्येकार्थं श्रमणादिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कुमारश्रमणा । कुमारप्रत्रजिता ॥ ११५ ॥ मयूरव्यंसकेत्यादयः । ३ । १ । ११६ । एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः । कम्बोजमुण्डः । एहीडं कर्म । अनी पिबता क्रिया । कुरुको वक्ता । गतप्रत्यागतं क्रयाक्रयिका । शाकपार्थिवः । त्रिभागः । सर्वश्वेतः ॥ ११६ ॥ चार्थे द्वन्द्वः सहोकौ । ३ । १ । ११७ । नाम नाम्ना सहोक्तिविषये चार्थवृत्तिः समासोदन्द्रः स्यात् । प्लक्षन्यग्रोधौ । वाक्त्वचम् । नाम नाम्नेत्यनुवृत्तावपि लघ्वक्षरादिसूत्रे एकग्रहणात् बहुनामपि । धवखदिरपलाशाः । चार्थइति किम् । वीप्सा -
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy