SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षलघुवृत्तिः। . एतान्येकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । सत्पुरुषः। महापुरुषः। परमपुरुषः। उत्तमपुरुषः। उत्कृष्टपुरुषः । पूजायामिति किम् । सन्घटोऽस्तीत्यर्थः ॥ १०७॥ .. वृन्दारकनागकुञ्जरैः। ३।१।१०८ । पूजायां गम्यायामभिः सह पूज्यवाच्येकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोवृन्दारकः गोनागः गोकुञ्जरः। पूजायामिति किम् । सुसीमो नागः ॥ १०॥ कतरकतमौ जातिप्रश्ने ।३।१।१०९। . एतावेकार्थों जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कतरकठः । कतमगार्यः । जातिप्रश्न इति किम् । कतरः शुक्लः । कतमो गन्ता ॥ १०९ ॥ किं क्षेपे । ३।१।११० । निन्दायां गम्यमानायां किमित्येकार्थे कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । किंराजा । किंगौः । क्षेपइति किम् । को राजा तत्र ॥ ११०॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्र शंसारूडैातिः ।३।१।१११। पोटादिभिः प्रशंसारूढैश्च सह जातिवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । इभ्यपोटा। नागयुवतिः। अग्निस्तोकम् । दधिकतिपयम् । गोगृष्टिः। गोधेनुः । गोवशा। गोवेहत् । गोबष्कयणी । कठपवक्ता । कठश्रोत्रियः । कगध्यायकः । मृगधूर्तः। गोमतल्लिका । गोपकाण्डम् ॥ १११ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy