SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ हैमशेम्दानुशासनस्य उपमेयं व्याघाद्यैः साम्यानुक्तौ ।३।१।१०२। ___ उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । पुरुषव्याघ्रः । श्वसिंही । साम्यानुक्ताविति किम् । पुरुषव्याघ्रः शूरइतिमाभूत् ॥ १०२ ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्य मवीरम् । ३।१।१०३। एतान्येकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्मधारयश्च स्युः। • पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः।चरमपुरुषः।जघन्यपुरुषः। समानपुरुषः। मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः ॥ १०३ ॥ श्रेण्यादि कृताद्यैश्च्व्य र्थे । ३।१।१०४। श्रेण्याद्यकार्थ कृताद्यैः सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्मधारयश्च स्यात् । श्रेणिकृता । ऊककृताः । च्व्यर्थइति किम् । श्रेणयः कृताः केचित् ॥ १०४ ॥ तं नमादिभिन्नैः ।३।१।१०५। क्तान्तमेकार्थ नप्रकारैरेव यानिभिन्नानि तैः सहसमासस्तत्पुरुषः कर्मधारयश्च स्यात् । कृताकृतम् । पीताऽवपीतम् । क्तमिति किम् । कर्त्तव्य. मकर्तव्यंच। नत्रादिभिन्नैरितिकिम् । कृतं प्रकृतं। कृतश्चाविहितंच॥१०५॥ सेटनाऽनिटा।३।१।१०६। सेट् क्तान्तं नत्रादिभिन्नेनानिटा सह न समस्यते । क्लिशितम. क्लिष्टम् । शितमशातम् । सेडिति किम् । कृताकृतम् । अनिटेति किम् । अशितानशितम् ॥ १०६॥ सन्महत्परमोत्तमोत्कृषपूजायाम।३।१।१०७१
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy