________________
स्वोपज्ञलघुवृत्तिः ।
पूर्वकालो यस्य तद्वाच्येकादीनिचैकार्थानि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । स्नातानुलिप्तः । एकशाटी । सर्व्वान्नम् | जरगवः पुराणकविः । नवोक्तिः । कंवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः ॥
दिगधिकं संज्ञातद्धितोत्तरपदे । ३ । १ । ९८ ।
दिग्वाच्यधिकं चैकार्थं नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशला । पूर्वेषु कामशमी । दाक्षणशालः । अधिकषाष्टिकः । उत्तरगवधनः । अधिकगवप्रियः ॥ ९८ ॥
संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १ । ९९ ।
संख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । संज्ञातद्धितयोर्विषये उत्तरपदे च परे समाहारे चार्थे अयमेव चासंज्ञायां द्विगुश्च । पञ्चाम्राः । सप्तर्षयः । द्वैमातुरः । अध्यर्द्धकंसः। पञ्चगवधनः। पञ्चनावप्रियः। पञ्चराजी । समाहारेचेति किम् । अष्टौप्रवचनमातरः । अनानीति किम् । पाञ्चर्षम् ॥ ९९ ॥
निन्द्यंकुत्सनैरपापाद्यैः । ३ । १ । १०० ।
१३५
निन्द्यवाचिनिन्दाहेतुभिः पापादिवर्णैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । वैयाकरणखसूची । मीमांसकद्दुर्दुरूटः । निन्द्यमिति किम् । वैयाकरणश्चौरः । अपापाद्यैरिति किम् । पापवैयाकरणः । हतविधिः॥१००॥ उपमानं सामान्यैः । ३ । १ । १०१ ।
उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्म्मवाचिभिरेव
समासस्त
पुरुषः कर्म्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला । उपमानमिति किम् । देवदत्ता श्यामा | सामान्यैरिति किम् । अग्निर्माणवकः ॥ १०१ ॥