________________
१३४
हैमशन्दानुशासनस्य एते सप्तमीतत्पुरुषाः क्षेपे निपात्यन्ते। पात्रे समिताः।गेहे शूरः॥११॥
केन ।३।१ । ९२ । सप्तम्यांत तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् । भस्मनिहतं । अवतप्ते नकुल स्थितम् ॥ ९२॥
तत्राहोरात्रांशम् ।३।१।९३ । तत्रेतिसप्तम्यन्तं अहरवयवा रात्ररवयवाश्च सप्तम्यन्ताः क्तान्तेन समासस्तत्पुरुषः स्यात् । तत्रकृतम् । पूर्वाह्नकृतम् । पूर्वरात्रकृतम् । तत्राहोरात्रंशमिति किम् । घटेकृतम् । अहोरात्रग्रहणं किम् । शुक्लपक्षे कृतम् । अंशमिति किम् । अह्निभुक्तं रात्रौनृत्तम् ॥ ९३ ॥
नाम्नि । ३।१। ९४ । सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलकाः । अरण्येमाषकाः ॥९४ ॥
कृयेनावश्यके ।३।१।९५ । सप्तम्यन्तं नाम यएच्चातइतियान्तनावश्यम्भावे गम्ये समासस्त. त्पुरुषश्च स्यात् । मासदेयम् । कृदिति किम् । मासेपित्र्यम् ॥ ९५ ॥ विशेषणं विशेष्येणैकार्थ कर्मधारय
श्च ।३।१। ९६। मिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यं तद्विशेषणवाचि विशेष्यवाचिनैकार्थे समासस्तत्पुरुषः कर्मधारयश्च स्यात् । नीलोत्पलम् । खञ्जकुण्टः । कुण्टखञ्जः । एकार्थ्यामिति किम् । वृद्धस्योक्षा वृद्धोक्षा ॥ ९६ ॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम्।३।१।९५