SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ स्वोपहर मुशि तृप्तार्थपूरणाव्ययाऽतृश्शत्रानशा।३।११८५। तृप्ताथैः पूरणप्रत्यान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च षष्ठ्यन्तं न समस्यते । फलानां तृप्तः।तीर्थकृतां षोडशः।राज्ञः साक्षात् । रामस्यद्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः ॥ ८५॥ ज्ञानेच्छाार्थाधारक्तन ।३।१।८६। ज्ञानेच्छार्चार्थेभ्यो यो वर्तमानेक्तो यश्चाद्यर्थाच्चाधार इत्याधारेक्तस्तदन्तेन षष्ठयन्तं न समस्यते। राज्ञां ज्ञातः राज्ञामिष्टः। राज्ञांपूजितः । इदमेषां यातम् ।। ८६ ।। अस्वस्थगुणैः । ३।१। ८७। ये गुणाः स्वात्मन्येवतिष्ठन्ति न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते । पटस्य शुक्लः । गुडस्य मधुरः। अस्वस्थगुणैरिति किम् । घटवर्णः । चन्दनगन्धः ॥ ८७॥ सप्तमी शौण्डाद्यैः । ३।१।८८ । एमिः सहैकार्थे सप्तम्यन्तं समासस्तत्पुरुषः स्वात् । पानशौण्डः । अक्षधूतः ।। ८८॥ सिंहाचैः पूजायाम् । ३।१।८९। एभिः सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पूजायां गम्यमानायां । समरसिंहः । भूमिवासवः ॥ ८९॥ काकाद्यैः क्षेपे।३।१।९०। एभिः सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः स्यात् । तीर्थकाकः । तीर्थश्वा । क्षेपइति किम् । तीर्थे काकोस्ति ॥९॥ पात्रेसमितत्यादयः। ३।१ । ९१ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy