SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३२ हैमशब्दानुशासनस्य - याजकादिभिः। ३।१। ७८ । षष्ठ्यन्तं याजकाद्यैः समासस्तत्पुरुषः स्यात् । ब्राह्मणयाजकः । गुरुपूजकः॥७८॥ पत्तिरथौ गणकन । ३।१ । ७९ । एतो षष्ठ्यन्तौ गणकन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः । रथगणकः । पत्तिरथाविति किम् । धनस्य गणकः ॥ ७९ ॥ . सर्वपश्चादादयः । ३।१ । ८० । एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वपश्चात् । सर्वचिरम् ॥ ८० ॥ अकेन क्रीडाजीवे । ३।१ । ८१ । पठ्यन्तमकप्रत्ययान्तेन क्रीडाजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् । उद्दालपुष्पभञ्जिका । नखलेखकः। क्रीडाजीवइति किम् । पयसः पायकः ॥ ८१॥ न कर्तरि ।३।१। ८२। कर्तरि या षष्ठी तदन्तमकान्तेन समासो न स्यात् । तव शायिका। कर्तरीति किम् । इक्षुभक्षिका ॥ ८२ ॥ कर्मजा तृचाच । ३।१। ८३ । कर्मणिया षष्ठी तदन्तं कर्तृविहिताकान्तेन तृजन्तेन न समासः स्यात् ।भक्तस्य भोजकः । अपांस्रष्टा । कर्मजेति किम् । गुणो गुणिविशेषकः सम्बन्धे ऽत्र षष्ठी । कर्तरीत्येव । पयः पायिका ॥ ८३॥ तृतीयायाम् । ३।१ । ८४ । कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् । शब्दानुशासनं गुरोः॥४॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy