________________
स्वोपज्ञलघुवृत्तिः ।
१३१
प्रकृतिः परिणामिकारणम् । एतद्वाचिनैकार्थ्यं चतुर्थ्यन्तं विकारार्थं समासस्तत्पुरुषः स्यात् । यूपदारु । प्रकृत्येति किम् । रन्धनाय स्थाली । हितादिभिः । ३ । १ । ७१ ।
चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुषः स्यात् । गोहितम् । गोसुखम् ॥ तदर्थार्थेन । ३ । १ । ७२ ।
चतुर्थ्यर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुषः स्यात् । पित्रर्थपयः । आतुरार्थाय यवागूः । तदर्थार्थेनेति किम् । पित्रेऽर्थः ॥ ७२ ॥ पञ्चमीभयाद्यैः । ३ । १ । ७३ ।
1
पञ्चम्यन्तं भयाद्यैरेकाथ्ये समासस्तत्पुरुषः स्यात् । वृकमयम् । वृकभीरुः ॥ ७३ ॥
क्तेनासत्त्वे । ३ । १ । ७४ ।
असत्त्ववृत्तेर्या पञ्चमी तदन्तं कान्तेन समासस्तत्पुरुषः स्यात् । स्तोकान्मुक्तः । अल्पान्मुक्तः । असत्त्वइति किम् । स्तोकादद्धः ॥ ७४ ॥
परः शतादि । ३ । १ । ७५ ।
अयं पञ्चमीतत्पुरुषः साधुः स्यात् । परःशताः । परःसहस्राः ॥७५॥
षष्ठययत्नाच्छेषे । ३ । १ । ७६ ।
शेषे या षष्ठी तदन्तं नाम नाम्नैकार्थ्ये समासस्तत्पुरुषः स्यात् । नचेत्सशेषो नाथइत्यादिर्यनात् । राजपुरुषः । अयत्नादिति किम् । सर्पिघोनाथितम् । शेषइति किम् । गवां कृष्णा सम्पन्नक्षीरा ॥ ७६ ॥ कृति । ३ । १ । ७७।
कर्म्मणिकृतः कर्त्तरीति या कृन्निमित्ता षष्ठी तदन्तं नाम्ना समांसस्तत्पुरुषः स्यात् । सप्पिज्ञीनं । गणधरोक्तिः ॥ ७७ ॥