________________
हैमशब्दानुशासनस्य
ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् । ये गुणेवर्त्तित्वा तद्योगाद्गुणिनि वर्त्तन्ते ते गुणवचनाः । ईषत्पिङ्गलः । ईषद्रक्तः । गुणव चनैरिति किम् । ईषद्गार्ग्यः ६४ ॥
तृतीया तत्कृतैः । ३ । १ । ६५ ।
१३०
1
तृतीयान्तं तदर्थकृतैर्गुणवचनैरेकार्थ्ये समासस्तत्पुरुषः स्यात् । शङ्कुलाखण्डः । मदपटुः । तत्कृतैरिति किम् | अक्ष्णाकाणः । गुणवचनैरित्येव । दभापटुः पाटवमित्यर्थः ॥ ६५ ॥
चतस्रार्द्धम् । ३ । १ । ६६ ।
अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन समासस्तत्पुरुषः स्यात् । अर्द्धचतस्रो मात्रः । चतखेति किम् । अर्द्धेन चत्वारो द्रोणाः ॥ ६६ ॥
ऊनार्थपूर्वाद्यैः । ३ । १ । ६७ ।
तृतीयान्तं ऊनार्थैः पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनं । माषविकलं । मात्रपूर्वः । मासावरः ॥ ६७ ॥
कारकं कृता । ३ । १ । ६८ ।
कारकवाचितृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम् । नखानिर्भिन्नः । काकपेया नदी । बाष्पच्छेद्यानि तृणानि । कारकमिति किम् । विद्ययोषितः ॥ ६८ ॥
न विंशत्यादिनैकोऽच्चान्तः । ३ । १ । ६९ ।
एकशब्दस्तृतीयान्तो न विंशत्यादिना समासस्तत्पुरुषः स्यात् । एकस्यचादन्तः । एकान्नविंशतिः । एकाद्नविंशतिः । एकान्नत्रिंशत् । एकानत्रिंशत् ॥ ६९ ॥
चतुर्थी प्रकृत्या । ३ । १ । ७० ।