SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सोपवलइष्टति। स्वयंसामी क्तन । ३।१।५८ । एते अव्ययेक्तान्तेन सहैकाथै समासस्तत्पुरुषः स्याताम् ।स्वयंधौतम् । सामिकृतम् । क्तेनेति किम् । स्वयंकृत्वा ॥ ५८॥ द्वितीयाखट्वा क्षेपे।३।१। ५९ । खट्वेतिद्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहकार्ये समासस्तत्पुरुषः स्यात् । खदवारूढो जाल्मः। क्षेपइति किम् । खवामारूढा पिताऽध्यापयति ॥ ५९ ॥ कालः ।३।१।६०। कालवाचिद्वितीयान्तं तान्तेन समासस्तत्पुरुषः स्यात् । राव्यारूढाः । अहरतिसृताः॥६०॥ व्याप्तौ।३।१।६१। गुणक्रियाद्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचिव्यापकार्थेन समासस्तत्पुरुषः स्यात् । मुहूर्तसुखं ।क्षणपाठः । दिनगुडः। व्याप्ताविति किम् । मासं पूरको याति ॥ ६१ ॥ ..... श्रितादिभिः । ३।१।६२ । द्वितीयान्तं धिादिभिः समासस्तत्पुरुषः स्यात् । धर्मश्रितः। शिवगतः ॥ ६२॥ प्राप्तापन्नौ तयाच्च । ३।१।६३। एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् । तद्योगे चानयोरत् स्यात् । प्राप्तजीविका । आपन्नजीविका ॥ ६३॥ ईषद्गुणवचनैः। ३।१। ६४।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy