SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२८ हैमशब्दानुशासनस्य नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः । न सूर्य पश्यन्ति असूर्यम्पः राजदाराः ॥ ५१ ॥ पूर्वापराघरोत्तरमभिन्नेनांशिना।३।१५२॥ पूर्वादयोऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् । नचेत्सोंऽशी भिन्नः। पूर्वकायः। अपरकायः। उत्तरकायः। अधरकायः । अभिन्नेनेति किम् । पूर्व छात्राणामामन्त्रयस्व । अंशिनेति किम् । पूर्वो नाभेः कायस्य ॥ ५२॥ - सायाहादयः।३।१।५३। एतेऽशितत्पुरुषाः साधवः स्युः । सायाह्नः । मध्यन्दिनम् ॥ ५३ ॥ समेंऽशेऽर्द्ध नवा । ३।१।५४ । समांशार्थमर्द्धमशिना भिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिष्पली । पिष्पल्यर्द्धम् । समेंशइति किम् । ग्रामाईः ॥ ५४ ॥ । जरत्यादिभिः । ३।१। ५५ । । एभिरंशिभिरभिन्नैरोवा समासस्तत्पुरुषः स्यात् । अर्द्धजरती । जरत्यर्द्धः । अोक्तम् । उक्तार्द्धः ॥ ५५ ॥ । द्वित्रिचतुष्पूरणाग्रादयः।३।१। ५६ । पूरणप्रत्ययान्ता द्वित्रिचत्वारोऽग्रादयश्चाभिन्ननाशिना वा समासस्तत्पुरुषः स्यात्। द्वितीयभिक्षा। भिक्षाद्वितीयम् । तृतीयभिक्षा । भिक्षा. तृतीयम् । तुर्यभिक्षा । भिक्षातुर्यम् । अग्रहस्तः । हस्ताग्रम् । तलपादः । पादतलम् ॥ ५६ ॥ कालोद्विगौ च मेयैः ।३।१।५७। कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुषः स्यात् । मासजातः। द्विगौ । एकमासजातः । द्वयहसुप्तः। कालइति किम् । द्रोणो धान्यस्य । ५७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy