SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः आङऽल्पे । ३।१।४६।। आडित्यव्ययमल्पार्थ नाम्ना सह समासस्तत्पुरुषः स्यात् । आकडारः ॥ ४६॥ प्रात्यवपरिनिरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्याः प्रथमाद्यन्तैः।३।१।४७ प्रादयो गताद्यर्थाः प्रथमान्तैरत्यादयः कान्ताद्यर्था द्वितीयान्तैरखादयः क्रुष्टाद्यर्थास्तृतीयान्तैः पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैर्निरादयः क्रान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यं समासस्तत्पुरुषः स्युः।प्राचार्यः। समर्थः। अतिखट्वः। उद्धेलः । अवकोकिलः। परिवीरुत् । पर्यध्ययनः । उत्सङ्ग्रामः निष्कौशाम्बिः । अपशाखः । बाहुलकात् षष्ठगऽपि । अन्तर्गार्यः ।गताधर्थाइति किम् । वृक्षम्परिविद्युत् । अन्यइत्येव । प्राचार्यको देशः॥४७॥ अव्ययं प्रवृद्धादिभिः । ३।१।४८ । अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुषः स्यात् । पुनः प्रवृद्धम् । अन्तर्भूतः ॥ ४८॥ ङस्युक्तं कृता।३।१ । ४९। कृतप्रत्ययविधायके सूत्रे डस्यन्त नाम्नोक्तं कृदन्तेन नाम्ना नित्यं समासस्तत्पुरुषः स्यात् । कुम्भकारः। ङस्युक्तमिति किम् । अलङ्कृत्वा । कृतेति किम् । धर्मो वो रक्षतु ॥ ४९ ॥ तृतीयोक्तं वा।३।१।५० । दशेस्तृतीययेत्यतो यत्तृतीयोक्तं नाम तत्कृदन्तेन वा समासस्तत्पुरुषः स्यात् । मूलकोपदंशम् । मूलकेनोपदंशं भुङ्क्ते ॥ ५० ॥ नञ् । ३।१।५१ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy