SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य सम्पत् । सब्रह्म साधूनाम् । साकल्यम् । सतृणमभ्यवहरति । अन्तः स. पिण्डैषणमधीते ॥ ३९ ॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्य।३।१॥४० एष्वर्थेष्वऽव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुरूपम् । प्रत्यर्थम् । यथाशक्ति । सशीलमनयोः ॥ ४० ॥ यथाऽथा।३।१।४१ । थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । यथारूपं चेष्टते । यथावृद्धमर्चय । यथासूत्रम् । अथेति किम् । यथा चैत्रस्तथा मैत्रः ॥४१॥ गतिकन्यस्तत्पुरुषः । ३।१।४२। गतयः कुश्च नाना सह नित्यं समासस्तत्पुरुषः स्यात् । अन्यो बहुबीह्यादिलक्षणहीनः। ऊरीकृत्य । खादकृत्य । प्रकृत्य । कारिकाकृत्य । कुब्राह्मणः । कोष्णम् । अन्यइति किम् । कुपुरुषः ॥ ४२॥ दुर्निन्दाकृच्छे।३।१।४३ । दुरव्ययं निन्दाकृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः । दुष्कृतम् । अन्यइति किम् । दुष्पुरुषकः ॥ ४३ ॥ सुः पूजायाम् । ३।१।४४। स्वित्यव्ययं पूजार्थं नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । सुराजा । अन्यइति किम् । सुमद्रम् ॥ ४४ ॥ अतिरतिक्रमे च । ३।१।४५ । अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य । अतिराजा॥४५॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy