________________
स्वोपज्ञलघुवृत्तिः।
१२६ एते समासा ऽव्ययीभावाः स्युः । यथायोगमन्यस्य पूर्वस्य वा पदस्थार्थे । तिष्ठद्गु कालः । अधोनाभं हतः ॥ ३६॥ नित्यं प्रतिनाऽल्पे । ३।१।३७।
अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाक. प्रति । अल्पइति किम् । वृक्षप्रतिविद्युत् ॥३७॥ संङ्ख्याऽक्षशलाकं परिणा द्यूतेऽन्यथा
वृत्तौ । ३।१।३८ । सङ्ख्यावाच्यक्षशलाके च द्यतविषयायामन्यथावृत्तौ वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात् । एकपरि । अक्षपरि । शलाका. परि। एकेनाक्षेण शलाकया वा न तथावृत्तं यथापूर्वजयइत्यर्थः। संङ्ख्या . दिति किम् । पाशकेन न तथावृत्तम् । द्यतइति किम् । रथस्याक्षेण न तथावृत्तम् ॥ ३८॥ विभक्तिसमीपसमृद्धिव्यूद्धयर्थाभावात्ययाऽ
संप्रतिपश्चात्क्रमख्यातियुगपत्सदृक्सम्पत्साकल्यान्तेऽव्ययम्।३।१।३९।
एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समा. सोऽव्ययीभावः स्यात् । विभक्ति । विभक्त्यर्थः कारकम् । अधिस्त्रि । समीपम् । उपकुम्भम् । समृद्धिः। सुमद्रम् । विगता ऋद्धिय॒द्धिः। दुर्यवनम् । अर्थाभावः। निर्मक्षिकम् । अत्ययोऽतीतत्वम् । अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभावः। अतिकम्बलम् । पश्चात्। अनुरथम् । क्रमः । अनु. ज्येष्ठं । ख्यातिः । इतिभद्रबाहु। युगपत् । सचक्र धेहि । सदृक् । सव्रतम् ।