SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२४ हेमशब्दानुशासनस्य गङ्गम् । मध्येगङ्गम् । अग्रेषणम् | अन्तर्गिरिम् । पक्षे गङ्गापारम् । गङ्गामध्यम् । वनाग्रम् । गिर्यन्तः ॥ ३० ॥ यावदियत्वे । ३ । १ । ३१ । इयत्त्वेऽवधारणे गम्ये यावदिति नाम नाम्ना पूर्वपदार्थ वाच्ये समासोऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्वइति किम् । याव. द्दत्तम् तावद्भुक्तम् ॥ ३१ ॥ पर्यपाद्बहिरच् पञ्चम्या । ३ । १ । ३२ । एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः । परित्रगर्त्तम् । अपत्रिगर्त्तम् । आग्रामम् । बहिर्ग्रामम् । प्राग्ग्रामम् । पञ्चम्येति किम् । परिवृक्षं विद्यत् ॥ ३२ ॥ लक्षणेनाभिप्रत्याभिमुख्ये । ३ । १ । ३३ । लक्षणं चिह्नम् । तद्वाचिनाऽऽभिमुख्यार्थावभिप्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अभ्यग्नि । प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् । श्रुघ्नं प्रतिगतः । पूर्वपदार्थइत्येव । अभ्यङ्कागावः ॥३३॥ दैर्येऽनुः । ३ । १ । ३४ । दैर्ध्य आयामविषये यलक्षणं तदाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । अनुगङ्गं वाणारसी । दैर्घ्यइति किम् । वृक्षमनुविद्युत् ॥ ३४ ॥ समीपे । ३ । १ । ३५ । समीपार्थेऽनुः समीपवाचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ॥ ३५ ॥ तिष्ठग्वित्यादयः । ३ । १ । ३६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy