________________
स्वोपज्ञलघुवृत्तिः ।
युद्धेऽव्ययीभावः । ३ । १ । २६ ।
तत्रेति सप्तम्यन्तं मिथ आदायेतिक्रियाव्यतिहारे तेनेतितृतीयान्तं मिथः प्रहृत्येतिक्रियाव्यतिहारे समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । केशाकेशि । दण्डादण्डि । तत्रेति तेनेति च किम् । केशांश्च केशांश्च गृहीत्वा । मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति च किम् । केशेषु च केशेषु च स्थित्वा । दण्डैश्व दण्डैश्वागत्य कृतं युद्धम् गृहकोकिलाभ्याम् । सरूपेणेति किम् । हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्धइति किम् । हस्ते च हस्ते चादाय सख्यं कृतम् || २६ ॥
नदीभिर्नानि । ३ । १ । २७ ।
१२३
नाम नदीवाचिना संज्ञायामन्यपदार्थे समासोऽव्ययीभावश्च स्यात् । उन्मत्तगङ्गं देशः । तूष्णीगङ्गम । नाम्नीति किम् | शीघ्रगङ्गो देशः || २७॥ सङ्ख्या समाहारे । ३ । १ । २८ ।
सङ्ख्यावाचि नदीवाचिभिः सह समाहारे गम्ये समासो ऽव्ययीभावः स्यात् । द्वियमुनम् । पञ्चनदम् । समाहारेति किम । एकनदी । द्विगुबाधनार्थे वचनम् || २८ ॥
वंश्येन पूर्वार्थे । ३ । १ । २९ ।
विद्यया जन्मना वा एकसन्तानो वंशः । तत्र भवो वंश्यः । तद्वाचिना नाम्ना सङ्ख्यावाचिसमासोऽव्ययीभावः स्यात् । पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य । पूर्वार्थइति किम् । द्विमुनिकं व्याकरणम् ॥ २९ ॥ पारे मध्ये ऽग्रेऽन्तः षष्ठ्या वा । ३ । १ |३०| एतानि षष्ठयन्तेन पूर्वपदार्थे समासोऽव्ययीभावो वा स्युः । पारे.