________________
१२२
हैमशब्दानुशासनस्य आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम सङ्ख्यानाम्नैकार्ये समासः स्यात् । द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्ख्येये वाच्ये स च बहुव्रीहिः । आसन्नदशाः । अदूरदशाः । अधिकदशाः। अद्ध्यर्द्धविंशाः । अर्द्धपञ्चमविंशाः ॥ २० ॥
अव्ययम् । ३।१।२१ । अव्ययं नाम सङ्ख्यानाम्नैकार्थे समस्यते । द्वितीयान्यार्थे सङ्ख्यये वाच्ये स च बहुव्रीहिः । उपदशाः ॥२१॥
एकार्थ चानेकं च । ३।१।२२।
एकमनेकं चैकार्थ समानाधिकरणमव्ययं च नाम्ना द्वितीयाद्यन्ता न्यपदस्यार्थे समस्यते । स च बहुव्रीहिः । आरूढवानरो वृक्षः। सुसूक्ष्मजटकेशः । उच्चैर्मुखः ॥ २२॥
ओष्ट्रमुखादयः।३।१। २३ । एते बहुव्रीहिसमासा निपात्यन्ते। ओष्ट्रमुखमिवमुखमस्य ओष्ट्रमुखः वृषस्कन्धः ॥ २३ ॥
सहस्तेन । ३।१।२४। तेनेतितृतीयान्तेन सहोऽन्यपदार्थे समस्यते । स च बहुव्रीहिः । सपुत्रआगतः । सकर्मकः ॥ २४ ॥ दिशोरूढ्याऽन्तराले । ३।१।२५। रूढया दिग्वाचिनामरूढयैवदिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्येसमासो बहुव्रीहिः स्यात् । दक्षिणपूर्वा दिक् । रूढयेति किम् । ऐन्द्रयाश्वकौबेर्याश्च दिशोर्यदन्तरालमिति ॥ २५ ॥
तत्रादायमिथस्तेन प्रहृत्यति सरूपेण