SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्वीपज्ञलधुवृत्तिः। --- एते उपसर्गाश्च धातोः सम्बन्धिनो गतयः स्युस्ते च प्राग् धातोः । ऊर्यादिः । ऊरीकृत्य । उररीकृत्य । अनुकरणम् । खादकृत्य । च्व्यन्तः । शुक्लीकृत्य । डाजन्तः । पटपटाकृत्य । उपसर्गः । प्रकृत्य ॥ २॥ कारिका स्थित्यादौ । ३।१।३। स्थित्यादावर्थे कारिका गतिः स्यात् । स्थितिमर्यादा वृत्तिा । कारिकाकृत्य ॥३॥ भूषादरक्षेपेऽलं सदसत् । ३।१।४। एष्वर्थेष्वेते यथासंख्यं गतयः स्युः। अलङ्कृत्य। सत्कृत्य। असत्कृत्य। भूषादिष्विति किम् । अलङ्कृत्वा मा कारीत्यर्थः ॥ ४ ॥ अग्रहाऽनुपदेशे ऽन्तरदः ।३।१।५। अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य । अदः कृत्यैतत्कर्तेतिध्यायति ॥ ५॥ कणेमन स्तृप्तौ ।३।१।६। एतावव्ययौ तृप्तौ गम्यमानायां गती स्याताम् । कणेहत्य। मनोहत्य पयः पिबति । तृप्ताविति किम् । तण्डुलावयवे कणे हत्वा ॥६॥ पुरोऽस्तमव्ययम् । ३।१।७। - एतावव्ययौ गती स्याताम् । पुरस्कृत्य । अस्तङ्गत्य । अव्ययमिति किम् । पुरः कृत्वा नगरीरित्यर्थः ॥ ७॥ गत्यर्थवदो ऽच्छः ।३।१।८। अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि गतिः स्यात् । अच्छगत्य । अच्छोद्य ॥ ८॥ तिरो ऽन्तछौं । ३।१।९।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy