SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ११७ इच्चापुंसो ऽनित्याप्परे । २ । ४ । १०७ । आंबेवपरो यस्मान्न विभक्तिस्तस्मिन्ननितः प्रत्ययस्यावयवे के परेs पुल्लिङ्गार्थाद्विहितस्यापस्स्थाने इहस्वौ वा स्याताम् । खविका । खट्वका । खट्वाका । अपुंसइति किम् । सर्विका । अनिदिति किम् । दुर्गका । आप्परइति किम् । प्रियखवाको ना । अतिप्रियखट्वाका स्त्री । आपइत्येव । मातृका ॥ १०७ ॥ स्वज्ञाऽजभस्त्राऽधातुत्ययकात् । २।४।१०८॥ स्वाऽभ्यो धातुत्यवर्जस्य यौ यकौ ताभ्यां च परस्यापः स्थाने ऽनितस्याप्परे परत इकारो वा स्यात् । स्क्किा । स्वका । ज्ञिका । ज्ञका । अजिका । अजका । भस्त्रिका | भस्त्रका | इम्यिका । इभ्यका । चटकिका | चटकका । धातुत्यवर्जनं किम् । सुनयिका । पाकिका । इहत्यिका | आप इत्येव । काम्पील्यिका ॥ १०८ ॥ द्वेषसूतपुत्रवृन्दारकस्य । २ । ४ । १०९ । एषामन्तस्यानित्वयाप्परे इर्वा स्यात् । द्विके । दके । एषिका । एषका । सूतिका । सूतका । पुत्रिका । पुत्रका । वृन्दारिका । वृन्दारका ॥ १०९ ॥ वौ वर्त्तिका । २ । ४ । ११० । शकुनार्थं वर्तिकाया इत्वं वा स्यात् । वर्त्तिका । वर्त्तका । वादिति किम् । वर्त्तिका भागुरिः ॥ ११० ॥ अस्या 'यत्ततक्षिपकादीनाम् । २ । ४ । १११। यदादिवर्जस्यातोऽनित्याप्परे इः स्यात् । पाचिका । मंदिका । अनित्कीत्येव । जीवका । आप्पर इत्येव । बहुपरिव्राजका । यदादिवर्जनं किम । या । सका। क्षिपका । ध्रुवका ॥ १११ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy