________________
-
-
हैमशब्दानुशासनस्य त्वे । २।४।१०। याबन्तस्य त्वे परे बहुलं हस्वः स्यात्।रोहिणित्वम् । रोहिणीत्वम् । अजत्वम् । अजात्वम् ॥ १०० ॥
ब्रुवोऽच्च कुंसकुट्योः ।२।४।१०१।
अनयोः परयो वो इस्वो ऽच्च स्यात् । भ्रकुंसः। भ्रुकुंसः । भ्रकु. टिः । भ्रुकुटिः ॥ १०१॥ मालेषीकेष्टकस्यान्तेऽपि भारितूल
चिते । २।४।१०२। एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यं इस्वः स्यात् । मालमारी। उत्पलमालभारी । इषीकतूलम् । इष्टकचितम् ॥१०॥
गोण्या मेये । २।४।१०३ । गोण्या मानवृत्तेरुपचारान्मेयवृत्तेईस्वः स्यात् । गोण्या मितोगोणिः ॥ १०३ ॥
ड्यादीदूतः के।२।४।१०४। . ज्यादीदूदन्ताञ्च के प्रत्यये ह्रस्वः स्यात् । पदविका । सोमपका । लक्ष्मिका। वधुका ॥ १०४ ॥
न कचि । २।४।१०५। ज्यादीदूतां कचि परे द्वस्वो न स्यात् । बहुकुमारीकः । बहुकी लालपाकः । बहुलक्ष्मीकः । बहुब्रह्मबन्धूकः ॥ १०५॥
नवाऽऽपः।२।४।१०६। आपः कचि परे हस्वो वा स्यात् । प्रियखवकः। प्रियखदवाकः ।