________________
स्वोपज्ञलघुवृत्तिः।
- ११५ यादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि लुक् स्यात् । नतु गोणीसूच्योः। सप्तकुमारः। पञ्चेन्द्रः। पञ्चयुवा। द्विपङ्गः। गौणस्येतिकिम् । अवन्ती । अकिपइति किम् । पञ्चकुमारी । अगोणीसूच्योरिति किम् । पञ्चगोणिः । दशसूचिः ॥९५ ॥ गोश्चान्ते हस्वो ऽनंशिसमासेयो बहु
ब्रीहौ । २।४।९६ । ___ गौणस्याविपो गोङाद्यन्तस्य चान्ते वर्तमानस्य हस्वः स्यात । न चंदसावंशिसमासान्तइयस्वन्तबहुव्रीह्यन्तो वा । चित्रगुः । निष्कौशाम्बिः। अतिखट्वः। अतिब्रह्मबन्धुः । गौणस्येत्येव । सुगौः।राजकुमारी । अकिप इत्येव । प्रियगौः। प्रियकुमारी चैत्रः। गोश्चेति किम् । अतितन्त्रीः। अन्तइति किम् । गोकुलम् । कुमारीप्रियः। कन्यापु.म् । अंशिसमासादि. वर्जनं किम् । अर्द्धपिप्पली । बहुश्रेयसी ना ॥ ९६ ॥
क्लीवे । २।४। ९७। नपुंसकवृत्तेः स्वरान्तस्य नानो हस्वः स्यात् । कीलालपम् । अतिनु कुलम् ॥ ९७ ॥ वेदूतोऽनव्ययम्बृदीचङीयुवःपदे।।४।९८॥
ईदूतोरुत्तरपदे परे इस्खो वा स्यात् । न चेतावव्ययौ घृतौ ईचौ ङयौ इयुव्स्थानौ च स्याताम् । लक्ष्मीपुत्रः। लक्ष्मिपुत्रः । खलपूपुत्रः । खलपुपुत्रः । अव्ययादिवर्जनं किम् । काण्डीभूतम् । इन्द्रहूपुत्रः । कारीष. गन्धीपुत्रः । गार्गीपुत्रः । श्रीकुलम् । भ्रूकुलम् ॥ ९८ ॥ ड्यापो बहुलं नाम्नि । २।४। ९९ ।
जयन्तस्याबन्तस्य चोत्तरपदे संज्ञायां इस्क स्यादबहुलम् । भरणिगुप्तः। भरणीगुप्तः। रेवतिमित्रः । रेवतीमित्रः। शिलवहम् । शिला. वहम् । गङ्गमहः गङ्गामहः ॥ ९९ ॥