SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११४ . हैमशब्दानुशासनस्य अनयोर्यो झ्यामीये च प्रत्यये लुक् स्यात् । सूरी । आगस्ती। सौरीयः । आगस्तीयः ॥ ८९ ॥ तिष्यपुष्ययोर्भाणि ।२।४।९० । ... नक्षत्रं तस्याणि परे ऽनयोर्यो लुक् स्यात् । तैषी रात्रिः । पौषमहः । भाणीति किम् । तैष्यश्चरुः ॥ ९० ॥ आपत्यस्य क्यच्व्योः । २।४।९१ । व्यञ्जनात्परस्यापत्यस्य यः क्ये चौ च परे लुक् स्यात् । गार्गीयति । गार्गीयते । गार्गीभूतः । आपत्यस्येति किम् । साङ्काश्यीयति । व्यञ्जनादित्येव । कारिकेयीयति ॥ ९१ ॥ तद्धितयस्वरेऽनाति । २।४। ९२। .. व्यञ्जनात्परस्यापत्यस्य यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् । गार्यः। गार्गकम् । आपत्यस्येत्येव । काम्पील्यकः। तद्धितेति किम् । वात्स्येन । अनातीति किम् । गाायणः ॥ ९२ ॥ बिल्वकीयादेरीयस्य ।२।४।९३ । नडादिस्था बिल्वादयः । तेषां कीयप्रत्ययान्तानामीयस्य तद्धितयस्वरे लुक् स्यात् । बैल्वकाः। वैणुकाः। बिल्वकीयादेरिति किम् । नाड. कीयः ॥ ९३ ॥ न राजन्यमनुष्ययोरके।२।४।९४ । अनयोर्यो ऽके परे लुग् न स्यात् । राजन्यानां समूहो राजन्यकम् । एवं मानुष्यकम् ॥ ९४॥ यादेगौणस्याकिपस्तद्धितलुक्यगोणी सूच्योः । २।४।९५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy