SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुतिः ष्यापुत्रपत्योः केवलयोरीच तत्पु रुषे । २।४। ८३। मुख्यआवन्तस्य ष्यः पुत्रपत्योः केवलयोः परयोस्तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुत्रः । कारीषगन्धीपतिः । ध्येति किम् । इभ्यापुत्रः। केवलयोरिति किम् । कारीषगन्ध्यापुत्रकुलम् ॥ ८३ ॥ बन्धौ बहुव्रीहौ । २।४। ८४ । मुख्यआबन्तस्य ष्यो बन्धौ केवलेपरे बहुव्रीहावीच् स्यात् । कारीषगन्धीबन्धुः। केवलइत्येव । कारीषगन्ध्याबन्धुकुलम् । मुख्यइत्येव । अतिकारिषगन्ध्याबन्धुः ॥ ८४ ॥ मातमातृमातृके वा।२।४। ८५। मुख्यआवन्तस्य ष्यो मातादिषु केवलेषु परेषु बहुव्रीहावीज् वा स्यात् । कारीषगन्धीमातः। कारीषगन्ध्यामातः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । कारिषगन्धीमातृकः । कारीषगन्ध्यामातृकः॥८॥ अस्य डयां लुक् । २।४।८६ । ज्यां परे ऽस्य लुक् स्यात् । मद्रचरी ॥८६॥ मत्स्यस्य यः । २।४।८७ मत्स्यस्य यो ङयां लुक् स्यात् । मत्सी ॥ ८७ ॥ व्य ञ्जनात्तद्धितस्य।२।४।८८। व्यञ्जनात्परस्य तद्धितस्य यो उयां लुक् स्यात् । मनुषी । व्यानादिति किम् । कारिकेयी। तद्धितस्येति किम् । वैश्यी ॥ ८८ ॥ सूर्यागस्त्ययोरीये च ।२।४।८९।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy