________________
हैमशब्दानुशासनस्य स्यान्तस्य ष्यः ।२।४। ७८ ।
अनार्षे वृद्धे विहितौ यावणिौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् । कारिषगन्ध्या । बालाक्या । अनार्षइति किम् । वासिष्ठी । वृद्धइति किम् । आहिच्छत्री । अणिजइति किम् । आर्त्तभागी । बहुस्वरेति किम् । दाक्षी । गुरूपान्त्यस्येति किम् । औपगवी । अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् । दौवार्या । औडुलोम्या ॥ ७८॥
कुलाख्यानाम् । २।४।७९। कुलमाख्यायते यकाभिः तासामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् । पौणिक्या। गौप्त्या। अनार्षइत्येव गौतमी ॥७९॥
क्रौड्यादीनाम् । २।४।८०। कौडि इत्यादीनामणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् । क्रौड्या। लाड्या ॥ ८० भोजसूतयोः क्षत्रियायुक्त्योः ।२।४।८१।
अनयोरन्तस्य यथासंख्यं क्षत्रियायुवत्योः स्त्रियां ष्यः स्यात् । भोज्या क्षत्रिया । सूत्या युवतिः । अन्यातु भोजा । सूता ॥ ८१ ।।
दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठे
विद्वेर्वा । २।४। ८२। एषामिञन्तानां स्त्रियामन्तस्य ष्यो वा स्यात् । दैवयझ्या । दैवयज्ञी । शौचिवृक्ष्या।शौचिवृक्षी । सात्यमुग्य।सात्यमुग्री। काण्ठेविड्या। काण्ठेविद्धी ॥ ८२॥