SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य यथासंख्यं दोषादौ गम्ये स्त्रियां ङीः स्यात् । ङीयोगे चानन्तः । यवानी । यवनानी लिपिः । अरण्यानी । हिमानी ।। ६५ ।। अर्यक्षत्रियाद्वा । २ । ४ । ६६ । आभ्यां स्त्रियां ङीर्वा स्यात् । ङीयोगे चानन्तः । अर्याणी । अर्या । क्षत्रियाणी | क्षत्रिया ॥ ६६ ॥ यञो डायन च वा । २ । ४।६७। ११० यञन्तात् स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तो वा स्यात् । गार्गी । गार्ग्यीयणी ॥ ६७ ॥ लोहितादिशकलान्तात् । २ । ४ । ६८ । लोहितादेः शकलान्तात् यञन्तात् स्त्रियां ङीः स्यात् । तद्योगे च डायनन्तः । लौहित्यायनी । शाकल्यायनी ॥ ६८ ॥ षावटाद्वा । २ । ४ । ६९ । षान्तादवटाच्च यञन्तात् स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तः। पौतिमाष्यायणी । पौतिमाष्या । आवट्यायनी । आवट्या ॥ ६९ ॥ कौरव्यमाण्डूकासुरैः । २।४।७०। एभ्यः स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तः । कौरव्यायणी । माण्डूकायनी । आसुरायणी ॥ ७० ॥ इञ इतः । २ । ४ । ७१ । इञन्तादिदन्तात् स्त्रियां ङीः स्यात् । सौतङ्गमी । इतइतिकिम् | कारिषगन्ध्या ॥ ७१ ॥ नुर्जातेः । २ । ४ । ७२ । मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीः स्यात् । कुन्ती । दाक्षी ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy