________________
स्वोपज्ञलघुवृत्तिः।
१०९. देवदत्तो धवः । देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् । गोपालकस्य स्त्री गोपालिका । आदित्येव । सहिष्णोः स्त्री सहिष्णुः॥ पूतक्रतुवृषाकप्यग्निकुसितकुसीदा
दैच । २।४। ६० । एभ्यो धववाचिभ्यस्तद्योगात् स्त्रीवृत्तिभ्यो ङीः स्यात् । ङीयोगे चैषामैरन्तस्य । पूतकतायी। वृषाकपायीं । अग्नायी । कुसितायी । कुसीदायी ॥ ६०॥
मनोरौ च वा। २।४।६१॥ धववृत्तेर्मनोर्योगात् स्त्रीवृत्ते ीर्वा स्यात् । ङीयोगे चास्यऔरैश्चान्तस्य । मनावी । मनायी । मनुः ॥ ६१ ॥ वरुणेन्द्ररुद्रभवशर्वमृडादान्चान्तः।२।४।६२।
एभ्यो धववाचिभ्यो योगस्त्रीवृत्तिभ्यो ङीः स्यात् । ङीयोगे आन्चान्तः।वरुणानी । इन्द्राणी । रुद्राणी । भवानी । शर्वाणी । मृडानी ॥ मातुलाचार्योपाध्यायाहा।२।४।६३ ।
एभ्योधववाचिभ्यो योगात्स्त्रीवृत्तिभ्यो ङीः स्यात् । ङीयोगे चा नन्तो वा । मातुलानी । मातुली। आचार्यानी । आचार्यां । उपाध्यायानी । उपाध्यायी ॥ ६३ ॥
सूर्यादेवतायां वा । २।४।६४।
सूर्याधववाचिनो योगाद्देवतास्त्रीवृत्तेीर्वा स्यात् । ङीयोगेचानन्तः । सूर्याणि । सूर्या । देवतायामिति किम् । मानुषी सूरी॥६४॥ यवयवनारण्यहिमाद्दोषलिप्युरु
महत्त्वे।२।४।६५।