________________
१०८
हैमशन्दानुशासनस्य जातिवाचिनोऽदन्तात् स्त्रियां ङीः स्यात् । नतु यान्तनित्यस्त्रीशूद्रात् । कुक्कुटी । वृषली । नाडायनी । कठी । जातेरिति किम् । मुण्डा। यान्तादिवर्जनं किम् । क्षत्रिया । नित्यस्त्रीवर्जनमिति किम् । खट्वा । शूद्रवर्जनं किम् । शूद्रा । आदित्येव । आखः ॥ ५४ ॥ पाककर्णपर्णवालान्तात् । २।४।५५ ।
पाकाद्यन्ताया जातेः स्त्रियांङीः स्यात्।ओदनपाकी। आखुकर्णी। मुद्गपर्णी। गोवाली । जातेरित्येव । बहुपाका यवागूः ॥ ५५ ॥ असत्काण्डप्रान्तशतैकाञ्चः पुष्पाता२।४५६
सदादिवर्जेभ्यः परो यः पुष्पशब्दस्तदन्ताजातेः स्त्रियां ङीः स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् । सत्पुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । प्राक्पुष्पा ॥ ५६ ।। असम्भस्त्राजिनैकशणपिण्डात्फ
लात् ।२।४।५७। __ समादिवर्जेभ्यो यः फलशब्दस्तदन्ताजातेः स्त्रियां ङीः स्यात् । वासीफली । समादिप्रतिषेधः किम् । संफला । भस्त्रफला। आजनफला । एकफला । शणफला । पिण्डफला । औषधिः ॥ ५७ ॥
अनजो मलात् । २।४।५८ । नवर्जात्परो यो मूलशब्दसदन्ताजातेः स्त्रियां ङीः स्यात् । दर्भमूली । शीर्षमूली । अनत्रइति किम् । अमूला ॥ ५८॥ धवाद्योगादपालकान्तात् ।२।४।५९।
धवो भर्ता तदाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात् डीः स्यात् । प्रष्ठी। गणकी।धवादिति किम् । प्रसृता ।योगादिति किम् ।