SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। १०५ तइतिवतिचानुवर्तते । आम्यां स्त्रियां कीर्वा स्यात् । तद्योगे तः कः । पलिकी । पलिता । असिनी । असिता ॥ ३७॥ असहनविद्यमानपूर्वपदात् स्वाङ्गादक्रो डादिभ्यः।२।४।३८ । सहादिवर्जपूर्वपदं यत् साङ्गं तदन्तात क्रोडादिवर्जाददन्तात् स्त्रियां ङीर्वा स्यात् । पीनस्तनी । पीनस्तना। अतिकेशी । अतिकेशा माला | सहादिवर्जनं किम् । सहकेशा। अकेशा । विद्यमानकेशा । कोडादिवर्जनं किम् । कल्याणकोडा । बहुगुदा । दीर्घवाला।स्वाङ्गादिति किम् । बहुशोफा । बहुज्ञाना । बहुयवा ॥ ३८॥ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रक ण्ठात् । २।४।३९ । सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी । तुङ्गनासिका । कृशोदरी। कृशोदरा । बिम्बोष्ठी। बिम्बोष्ठा । दीर्घजडी । दीर्घजङ्घा । समदन्ती। समदन्ता। चारुकी। चारुकर्णा। तीक्ष्णशृङ्गी । तीक्ष्णशृङ्गा । मृदङ्गी । मृदङ्गा । सुगात्री । सुगात्रा । सुकण्ठी । सुकण्ठा। पूर्वेण सिद्धे नियमार्थमिदम् । तेन बहुस्वरसंयोगोपान्तेभ्योऽन्येभ्यो माभूत् । सुललाटा । सुपार्था ॥ ३९ ॥ नखमुखादनाम्नि । २।४।४० । सहादिवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्यामसंज्ञायामेव स्त्रियां ङीर्वा स्यात् । शूर्पनखी। शूर्पनखा । चन्द्रमुखी । चन्द्रमुखा। अनाम्नीतिकिम् । शूर्पणखा । कालमुखा ॥ ४० ॥ पुच्छात् । २।४।४१।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy