________________
१०४
हेमशम्दानुशासनस्प शोणादेः स्त्रियां डीवा स्यात् । शोणी। शोणा । चण्डी । चण्डा ॥ ३१॥
इतोक्त्य र्थात् । २।४।३२। स्त्यर्थप्रत्ययान्तवर्जादिदन्तात् स्त्रियां डीर्वा स्यात् । भूमी । भूमिः । धूली । धूलिः । अन्त्यर्थादिति किम् । कृतिः। अकरणिः हानिः ॥३२॥
पद्धतः । २।४।३३। अस्मात् स्त्रियां ङीर्वा स्यात् । पद्धती । पद्धतिः ॥ ३३ ॥ - शक्तेः शस्त्रे । २।४।३४।।
अस्माच्छस्त्रे स्त्रियां ङीर्वा स्यात् । शक्ती । शक्तिः । शस्त्रइति किम् । शक्तिः सामर्थ्यम् ॥ ३४ ॥ स्वरादुतो गुणादखरोः । २।४। ३५।
खरात्परो य उत्तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां डीर्वा स्यात् । पट्टी । पटुः । विभ्वी। विभुः।स्वरादिति किम् । पाण्डुभूमिः । गुणादिति किम् । आखुः स्त्री। अखरोरिति । खरुरियम् ॥ ३५॥ श्यतैतहरितभरितरोहिताद्वर्णात्तो
नश्च ।२।४।३६ । - एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा स्यात् । तद्योगे तोन्च । श्वनी। श्यता । एनी । एता । हरिणी । हरिता । भरिणी। भारिता। रोहिणी । रोहिता । वर्णादिति किम् । श्येता । एता ॥ ३६ ॥ कः पलितासितात् । २।४।३७।