SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलडुवृत्तिः । १०३ प्राणिन्यौषधौ च नीलात् स्त्रियां ङः स्यात् । नीली गौः । नीली औषधिः । नीलाऽन्या ॥ २७ ॥ काच्चनाम्नि वा । २ । ४ । २८ । नीलात् क्तान्ताच्चस्त्रियां संज्ञायां ङीर्वा स्यात् । नीली । प्रवृद्धविलूनी । नीला | प्रवृद्धविलूना ॥ २८ ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् । २।४।२९। एम्यो नाम्नि स्त्रियां ङीः स्यात् । केवली ज्योतिः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । नाम्नीत्येव । केवला ॥ २९ ॥ भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् पक्कावपनस्थूलाऽकृत्रिमात्र कृष्णायसीरिरंसुश्रोणिकेशपाशे । २ । ४ । ३० । एभ्यो यथासंख्यं पकादिष्वर्थेषु स्त्रियां नाम्नि ङीः स्यात् । भाजी पक्वा चेत् । भाजाऽन्या । गोणी आवपनम् । गोणाऽन्या । नागी स्थूला । नागाऽन्या । स्थली अकृत्रिमा | स्थलाऽन्या | कुण्डी अमत्रम् | कुण्ड (न्या । काली कृष्णा । काला ऽन्या । कुशी आयसी । कुशा ऽन्या । कामुकी रिरंसुः । कामुका ऽन्या । कटी श्रोणिश कटाऽन्या । कबरी केशपाशः । कबराऽन्या ॥ ३० ॥ नवा शोणादेः । २ । ४ । ३१ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy