________________
ܘܐ
हैम शब्दानुशासनप
'ऊन्नन्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । कुण्डोनी ॥ ७ ॥ अशिशोः । २ । ४।८।
अशिशुइति बहुव्रीहेः स्त्रियां ङीः स्यात् । अशिश्वी ॥ ८ ॥
संख्यादेर्हायनाद्वयसि । २ । ४ । ९ ।
संख्यादेहयनान्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । वयसि गम्ये त्रिहायणी | चतुर्हायणी वडवा । वयसीति किम् । चतुर्हायना शाला ॥ दाम्नः । २ । ४ । १० ।
संख्यादेर्दा मन्नन्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । द्विदाम्नी । संख्यादेरित्येव । उद्दामानं पश्य ॥ १० ॥
अनो वा । २ । ४ । ११ ।
अन्नन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात् । बहुराइयौ । बहुराजे | बहुराजानौ ॥ ११ ॥
नाम्नि । २ । ४ । १२ ।
अन्नन्ताद्बहुव्रीहेः स्त्रियां संज्ञायां नित्यं ङीः स्यात् । अधिराज्ञी । सुराज्ञी नाम ग्रामः ॥ १२ ॥
नोपान्त्यवतः । २। ४ । १३ ।
यस्योपान्त्यलग्नास्ति तस्मादन्नन्ताद्बहुव्रीहेः स्त्रियां ङीर्न स्यात् । सुपर्वा । सुशर्मा । उपान्त्यवतइति किम् । बहुराज्ञीः ॥ १३ ॥ मनः । २ । ४ । १४ ।
मन्नन्तात् स्त्रियां ङीर्न स्यात् । सीमानौ ॥ १४ ॥
ताभ्यां वापू डित् । २।४।१५।