SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिः । स्त्रियांनृतोऽस्वस्रादेर्डीङः । २ । ४ । १ । स्त्रीवृत्तेर्नान्तादृदन्ताच्च स्वस्रादिवजीजीः स्यात् । राज्ञी । अतिराक्षी । कर्त्री । स्त्रियामिति किम् । पञ्चनद्यः । अस्वस्रादेरितिकिम् । स्वसा । दुहिता ॥ १ ॥ ९९ अधातूदृदितः । २ । ४।२। अधातुर्यउदिदिञ्चतदन्तात् स्त्रीवृत्तेङः स्यात् । भवती । अतिमहती । पचन्ती । अधात्विति किम् । सुकन स्त्री ॥ २ ॥ अञ्चः । २ । ४।३। अञ्चन्तात् स्त्रियां ङीः स्यात् । प्राची । उदीची ॥ ३ ॥ स्वराऽघोषाद्वनो रश्च । २।४।४। एतदन्तात् विहितो यो वन् तदन्तात् स्त्रियां ङीः स्यात् । तद्योगे वनोऽन्तस्य रश्च । अवावरी । धीवरी । मेरुदृश्वरी । णस्वराऽघोषादिति किम्। सहयुवा स्त्री । विहितविशेषेणं किम् । शर्वरी ॥ ४ ॥ वा बहुव्रीहेः । २ । ४ । ५ । णस्त्रराघोषाद्विहितोयोवन्तदन्तात् बहुव्रीहेः स्त्रियां ङीवी स्यात् । रश्वान्तस्य । प्रियावावरी । प्रियावावा । बहुधीवरी । बहुधीवा । बहुमेरुदृश्वरी | बहुमेरुदृश्वा ॥ ५ ॥ वा पादः । २ । ४।६। बहुव्रीहेस्तद्धेतुकपाच्छन्दान्तात् स्त्रियां ङीर्वा स्यात् । द्विपदी । द्विपात् । बहुव्रीहिनिमित्तो यः पादितिविशेषणादिह न स्यात् । पादमाचष्टे । क्विपि पा । त्रयः पादोऽस्याः सा त्रिपात् ॥ ६ ॥ ऊध्नः । २।४।७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy