________________
तृतीयः प्रकाश: । प्रय कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वधे पतन्तं स्खं न शोचसि ॥ ६० ॥ . तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः ॥ ६१ ॥ प्रघान्यतीचारभवान्युन्मूलयितमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवानघे ! ॥ ६२ ॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः ॥ ६३ ॥ . . अाशातनेयं युष्माकं बोधहेतोर्मया कता। क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ६४ ॥ इच्छामीति भणित्वा च गुर्वन्तिकमुपेत्य सः । ग्टहीत्वालोचनां तीक्ष्ण माचचार पुनस्तपः ॥ ६५ ॥ राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिवाय विना रागण सा तु तम् ॥ ६६ ॥ स्थूलभद्रं विना नान्यः पुमान् कोऽपौत्यहर्निशम्। . सा तस्य रथिनोऽभ्यणे वर्णयामास वर्षिनी ॥ ६७ ॥ । रथौ गत्वा गृहोद्याने पर्यधै च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ ६८ ॥ माकन्दलुम्बी बाणन विव्याध तमपौषुणा । पुलेऽन्येन तमप्यन्येनत्याहस्तं शराख्यभूत् ॥ ६ ॥ वन्तं हित्वा क्षुरप्रेण बाणश्रेणिमुखस्थिताम् । लुम्बौं खपाणिनाऽऽक्वष्यासीनस्तस्यै स आर्पयत् ॥ ७० ॥
८२