________________
योगशास्त्रे स मुनिर्व्याजहाराथ प्रसौद मृगलोचने !। अस्मासु भवति द्रव्यं किं तैलं वालुकाविव ? ॥ ४८ ॥ नेपालभूपोऽपूर्वस्मै साधर्व रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ ५० ॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥ ५१ ॥ तत्र गत्वा महीपाला रत्नकम्बलमाप्य च । स मुनिर्वलितो वमन्यासंस्तत्र च दस्यवः ॥ ५२ ॥ आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः । किमायातीत्यपृच्छच्च दस्युराड् द्रस्थितं नरम् ॥ ५३ ॥ प्रागच्छन् भिक्षुरकोऽस्ति न कश्चित् तादृशोऽपरः। इत्यशंसद् द्रुमारूढयौरसेनापतेः स तु ॥ ५४॥ साधुस्तत्राथ संप्राप्तस्तैर्विकृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मलिम्लुचैः ॥ ५५ ॥ .. एतल्लक्षं प्रयातीति व्याहरच्छकुन: पुनः । मुनिं चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥ ५६ ॥ वेश्याक्वतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः । अस्तीत्युक्ते मुनिश्चोरराजेन मुमुच्चेऽथ सः ॥ ५७ ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा एहस्रोतःप निःशङ्कमेव तम् ॥ ५८ ॥ अजल्पद मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे। .. महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥५६॥