________________
टतीयः प्रकाशः।
कोशावेश्याग्रहे नित्यं षडरसाहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासौमिमामहम् ॥ ३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् ।। विचार्येत्यपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ ३८ ॥ वत्स ! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः ॥ ४० ॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः ? । तदवश्यं करिष्यामौत्युवाच स मुनिर्गुरुम् ॥ ४१ ॥ गुरुरूचेऽमुना भावी मंश: प्रातपसोऽपि ते । पारोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ ४२ ॥ गुरोर्वचोऽवमन्याथ वोरंमन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तु निकेतनम् ॥ ४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्वासौ। भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ ४४ ॥ वसत्य याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ ४५ ॥ तं भुक्तषड्रसाहारं मध्यात्रेऽथ परीक्षितम् । कोशापि तत्र लावण्यकोशभूता समाययौ ॥ ४६॥ चुक्षोभ स मुनिर्मछु पङ्कजाक्षीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृग् विकाराय न किं भवेत् ? ॥४७॥ स्मराा याचमानं तं कोशाप्येवमवोचत । वयं हि भगवन् ! बेश्या वश्याः स्मो धनदानतः ॥ ४८ ॥