SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७२६ योगशास्त्रे मुनेस्तस्येन्द्रियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं सा 'गृहोत्वेवमभिग्रहम् ॥ २८ ॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः । विना पुमांसमेकं तमन्यत्र नियमो मम ॥ २८ ॥ गते तु वर्षासमये ते त्रयोऽपि हि साधवः । निर्व्यूढाभिग्रहा एयुर्गुरुपादान्तिकं क्रमात् ॥ ३० श्रयान् सिंहगुहासाधुरहो ! दुष्करकारक ! | तव स्वागतमित्यूचे किञ्चिदुत्थाय सूरिणा ॥ ३१ ॥ सूरिणा भाषितौ तद्ददायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसत्क्रिया ॥ ३२ ॥ श्रथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्कर दुष्करकार ! महात्मन् ! स्वागतं तव ॥ ३३ ॥ सास्याः साधवस्तेऽथाचिन्तयन्त्रित्यहो ! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं ननु ॥ ३४ ॥ यद्यसौ षड्रसाहारः कृतदुष्कर दुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥ ३५ ॥ एवं मनसि संस्थाप्य सामर्शास्ते महर्षयः । कुर्वाणाः संयमं मासान्नष्टावगमयन् क्रमात् ॥ ३६ ॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ ३७ ॥ ( १ ) ग ड व महीचैष ।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy