________________
हतीयः प्रकाशः ।
७२५
सुकुमारः प्रत्यासी रम्भास्तम्भ इवोरुणा। व्रतभारण विधुरोऽत्रागादिति विचिन्त्य सा ॥ १७ ॥ उवाच स्वागतं स्वामिन् ! समादिश करोमि किम् ? । वपुर्धनं परिजन: सर्वमेतत् तवैव हि ॥ १८ ॥ चतुर्मासी वसत्य मे चित्रशालेयमर्म्यताम् । इत्यूचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥ १८ ॥ . तया च तस्यां प्रगुणोक्तायां भगवानपि.। कामस्थानेऽविशद् धर्म इव स्वबलवत्तया ॥ २० ॥ अथ सा षड्रसाहारभोजनानन्तरं मुनेः । विशेषक्तशृङ्गारा क्षोभाय समुपाययौ ॥ २१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवासराः । चतुरं रचयामास हावभावादिकं मुहुः ॥ २२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास साऽसकृत् ॥ २३ ॥ यद् यत् क्षोभाय विदधे तया तत्र महामुनो। तत् तद् मुधाऽभवद् यहद् वचे नखविलेखनम् ॥ २४ ॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा। जगाम स तु न क्षोभं मनागपि महामनाः ॥ २५ ॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः । प्रादीप्यत ध्यानवह्निर्मघवह्निरिवाम्भसा ॥ २६ ॥ त्वयि पूर्वमिवाज्ञानाद रन्तुकामां धिगोश ! माम् । आत्मानमिति निन्दन्ती साऽपतत् तस्य पादयोः ॥ २७ ॥