________________
७२४
योगशास्त्रे मूषया तापितमथ पपौ वररुचिस्त्रपु। . प्राणेश्च मुमुचे सद्यस्तत्प्रदाहभयादिव ॥ ६ ॥ स्थूलभद्रोऽपि संभूतविजयाचार्यसबिधौ। प्रव्रज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ॥ ७ ॥ वर्षाकालेऽन्यदाऽऽयाते संभूतविजयं गुरुम् । प्रणम्य मूर्धा मुनय इत्यग्टनभिग्रहान् ॥ ८॥ अहं सिंहगुहाहार कृतोत्सर्ग उपोषितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥ ८ ॥ दृविषाहिबिलहार चतुर्मासीमुपोषितः । स्थास्यामि कायोत्सर्गेण हितीयोऽभ्यग्रहीदिति ॥ १० ॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति टतीयः प्रत्यपद्यत ॥ ११ ॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् ॥ १२ ॥ कोशाभिधाया वेश्याया ग्रहे या चित्रशालिका। विचित्रकामशास्त्रोक्त करणालेख्यशालिनी ॥ १३ ॥ तत्राकृततपःकर्मविशेषः षड्रसाशनः । स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! ॥ १४ ॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे खं खं स्थानं प्रतिश्रुतम् ॥ १५ ॥ स्थूलभद्रोऽपि संप्राप कोशावेश्यानिकेतनम् ।.. अभ्युत्तस्थौ ततः कोशाप्याहिताञ्जलिरग्रतः ॥ १६ ॥