________________
हतीयः प्रकाशः ।
२
पन्यदा नन्दराड् मन्विगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादेवं सगहदम् ॥ ८५ ॥ भक्तिमान् शक्तिमान् नित्यं शकटालो महामतिः । अभवद मे महामात्यः शक्रस्येव बृहस्पतिः ॥ ८६ ॥ एवमेव विपन्नोऽसौ दैवादद्य करोमि किम् ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ ८७ उवाच श्रीयकोऽप्येवं किं देवेह विदमहे। इदं वररुचि: सर्व पापं व्यधित मद्यपः ॥८॥ · सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । खोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥ ८ ॥ श्रीयकस्तु हितीयेऽह्नि सर्वेषामीयुषां सदः । खपुंसा शिक्षितेनाग्रं पद्ममेकैकमार्पयत् ॥ १० ॥ तत्कालं मदनफलरसभावनयाऽञ्चितम् । दुरात्मनो वररुचेरपंयामास पङ्कजम् ॥ १॥ कुतस्त्यमङ्गुतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युर्नासाग्रे स्वं स्वमम्बुजम् ॥ २ ॥ मोऽपि भट्टोऽनयद घ्रातुं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ ३ ॥ धिगमुं सीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्याक्रश्यमानो निर्ययौ सदसोऽथ सः ॥ ४॥ ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुण: पानं सुरापाणाघघातकम् ॥ ५॥ .
.